|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.6. अध्यायः 006
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
युधिष्ठिरेण भीष्मंप्रत सविस्तरं विश्वामित्रचरित्रानुवादपूर्वकं तस्य ब्राह्मण्यप्राप्तिहेतुप्रश्नः॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
ब्राह्मण्यं यदि दुष्प्राप्यं त्रिभिर्वर्णैर्नराधिप।
कथं प्राप्तं महाराज क्षत्रियेण महात्मना॥ 13-6-1(81441)
विश्वामित्रेण धर्मात्मन्ब्राह्मणत्वं नरर्षभ।
श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह॥ 13-6-2(81442)
तेन ह्यमितवीर्येण वसिष्ठस्य महात्मनः।
हतं पुत्रशतं सद्यस्तपसाऽपि पितामह॥ 13-6-3(81443)
यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः।
मन्युनाऽऽविष्टदेहेन सृष्टाः कालान्तकोपमाः॥ 13-6-4(81444)
महान्कुशिकवंशश्च ब्रह्मर्षिशतसंकुलः।
स्थापितो नरलोकेऽस्मिन्विद्वद्ब्राह्मणसंकुलः॥ 13-6-5(81445)
ऋतीकस्यात्मजश्चैव शुनःशेपो महातपाः।
विमोक्षितो महासत्रात्पशुतामप्युपागतः॥ 13-6-6(81446)
हरिश्चन्द्रक्रतौ देवांस्तोषयित्वाऽऽत्मतेजसा।
पुत्रतामनुसंप्राप्तो विश्वामित्रस्य धीमतः॥ 13-6-7(81447)
नाभिवादयते ज्येष्ठं देवरातं नराधिप।
पुत्राः पञ्चशतं चापि शप्ताः श्वपचतां गताः॥ 13-6-8(81448)
त्रिशङ्कुर्बन्धुभिर्मुक्त ऐक्ष्वाकः प्रीतिपूर्वकम्।
अवाक्शिरादिवं नीतो दक्षिणामाश्रितोदिशम्॥ 13-6-9(81449)
विश्वामित्रस्य भगिनी नदी देवर्षिसेविता।
कौशिकीति कृता पुण्या ब्रह्मर्षिसुरसेविता॥ 13-6-10(81450)
तपोविघ्नकरी चैव पञ्चचूडा सुसंमता।
रम्भा नामाप्सराः शापाद्यस्य शैलत्वमागता॥ 13-6-11(81451)
तथैवास्य भयाद्बद्ध्वा वसिष्ठः सलिले पुरा।
आत्मानं मञ्जयञ्श्रीमान्विपाशः पुनरुत्थितः॥ 13-6-12(81452)
तदाप्रभृति पुण्या हि विपाशाऽभून्महानदी।
विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः॥ 13-6-13(81453)
वश्यश्च भगवान्येन देवसेनाग्रगः प्रभुः।
स्तुतः प्रीतमनाश्चासीच्छापाच्चैनममुञ्चत॥ 13-6-14(81454)
ध्रुवस्यौत्तानपादस्य ब्रह्मर्षीणां तथैव च।
मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम्॥ 13-6-15(81455)
तस्यैतानि च कर्माणि तथाऽन्यानि च कौरव।
क्षत्रियस्येत्यतो जातमिदं कौहतूलं मम॥ 13-6-16(81456)
किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ।
देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत्॥ 13-6-17(81457)
एतत्तत्वेन मे तात सर्वमाख्यातुमर्हसि।
मतङ्गस्य यथातत्त्वं तथैवैतद्वदस्व मे॥ 13-6-18(81458)
स्थाने मतङ्गो ब्राह्मण्यं नालभद्भरतर्षभ।
चण्डालयोनौजातो हि कथं ब्राह्मण्यमाप्तवान्॥ ॥ 13-6-19(81459)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानदर्मपर्वणि षष्ठोऽध्यायः॥ 6 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-6-1 शुनःशेषो देवांस्तोषयित्वा तैर्मोक्षितः सन्पुत्रतां विश्वामित्रस्यानुसम्प्राप्त इत्युत्तरेण सम्बन्धः॥ 7-6-8 नाभिवादयते न नमस्कुर्वन्ति। अनुस्वारलोष आर्षः। देवरातं देवैर्विश्वामित्राय दत्तं तेन च ज्येष्ठं कृतं सन्तम्। शप्ता येनेति शेषः॥ 7-6-9 बन्धुभिर्मुक्तः। वसिष्ठशापेन चण्डालतां गतत्वात्। दिवं येन नीतः॥ 7-6-11 पञ्च चूडाः वलयभेदा यस्याः सा॥ 7-6-14 त्रिशङ्कुं याजयन्विश्वामित्रो वसिष्टपुत्रैः शप्तः श्वपचस्य याजकस्त्वं श्वपचो भविष्यसीति। तं शापमृतं कर्तुं विश्वामित्रः कस्यांचिदापदि श्वजाघनीं चौर्येणार्जयित्वा पक्तुमारेभे। तामिन्द्रः श्येनरूपेण हृतवान्। तावतैवायं शापान्मुक्तो ववर्ष चेन्द्र इति। देवसेनानामग्रगः श्रेष्ठ इन्द्रः॥ 7-6-15 ज्वलति तारारूपेण॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|